उड्डीनम्

सुधाव्याख्या

प्रेति । प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । ‘डीङ् विहायसा गतौ’ (दि० आ० अ०) । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘स्वादय ओदितः’ (दि० गणसूत्रम्) इत्योदित्त्वात् (८.२.४५) निष्ठानत्वम् ॥—प्रडीनं तिर्यग्गमनम् इत्यन्ये ॥ ‘एताः’ इत्यनेन हि डीनाद्या बोध्याः ।


प्रक्रिया

धातुः -


डीङ् विहायसा गतौ
डी - हलन्त्यम् 1.3.3
उत् + डी + क्त - नपुंसके भावे क्तः 3.3.114
उत् + डी + त
उत् + डी + न - स्वादय ओदितः (8.2.45) । गणसूत्रम् ।
उड् + डीन - ष्टुना ष्टुः 8.4.41
उड्डीन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उड्डीन + अम् - अतोऽम् 7.1.24
उड्डीनम् - अमि पूर्वः 6.1.107