पेशी

सुधाव्याख्या

पेशीति । पिंशति । ‘पिश अवयवे’ (तु० प० से०) । ‘हृपिशिरुहि-’ (उ० ४.११९) इतीन् । ‘कृदिकारात्-’ (ग० ४.१.४५) इति वा ङीष् । ‘पेशी सुपक्वकणिके मांस्यां खड्गपिधानके । मांसपिण्ड्यामण्डभेदे’ (इति तालव्यान्तेषु मेदिनी) ॥


प्रक्रिया

धातुः -


पिशँ अवयवे
पिश् - उपदेशेऽजनुनासिक इत् 1.3.2
पिश् + इन् - हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च (४.११९) । उणादिसूत्रम् ।
पिश् + इ - हलन्त्यम् 1.3.3
पेशि - पुगन्तलघूपधस्य च 7.3.86
पेशि + ङीष् - कृदिकारादक्तिनः (4.1.45) । गणसूत्रम् ।
पेशि + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पेश् + इ - यस्येति च 6.4.148
पेशी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पेशी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पेशी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68