प्रडीनः

सुधाव्याख्या

प्रेति । प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । ‘डीङ् विहायसा गतौ’ (दि० आ० अ०) । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘स्वादय ओदितः’ (गणसूत्रम्) इत्योदित्त्वात् (८.२.४५) निष्ठानत्वम् ॥—प्रडीनं तिर्यग्गमनम् इत्यन्ये ॥ ‘एताः’ इत्यनेन हि डीनाद्या बोध्याः ।