कोषः

सुधाव्याख्या

कुष्यति निष्क्रामत्यस्मात्स्वयमेव । ‘अकर्तरि च’ (३.३.१९) इति घञ् । ‘कोषोऽस्त्री कुड्मले पात्रे पेश्यां शब्दादिसंग्रहे । जातिकोशेऽर्थसंघाते दिव्ये खड्गपिधानके’ (इति मूर्धन्यान्ते मेदिनी) । तालव्यान्तोऽप्ययम् । ‘कोशोऽस्त्री-' (इति तालव्यान्तेषु मेदिनी) यथा पठितम् ॥