अण्डम्

सुधाव्याख्या

नामद्वयमिदम् । स्वामी तु–पेशीनां मांसखण्डानां कोशो भाण्डागारः -इति व्याचक्षाणो नामैकमिदमिच्छति । द्वाभ्यां हीने क्लीबं इत्यर्थः । अमत्यस्मात् । ‘अम गत्यादिषु’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । ‘अण्डं मुष्के च पेश्यां स्यात्’ (इति मेदिनी) ॥