पुण्ड्रकः

सुधाव्याख्या

पुण्डति पुण्ड्यते वा । ‘मुडि खण्डने ‘पुडि च' (भ्वा० प० से०) । ‘स्फायि-' (उ० २.१३) इति रक् । स्वार्थे कन् (५.३.७५) ।


प्रक्रिया

धातुः - पुडिँ खण्डने


पुड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुन्ड् - इदितो नुम् धातोः 7.1.58
पुंड् - नश्चापदान्तस्य झलि 8.3.24
पुण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
पुण्ड् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
पुण्ड् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पुण्ड्र + सु + कन् - संज्ञायां कन् 5.3.75
पुण्ड्र + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
पुण्ड्र + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पुण्ड्रक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पुण्ड्रक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुण्ड्रक + रु - ससजुषो रुः 8.2.66
पुण्ड्रक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुण्ड्रकः - खरवसानयोर्विसर्जनीयः 8.3.15