अतिमुक्तः

सुधाव्याख्या

अतीति । अतिक्रान्तो मुक्तां शौक्लयात् । ‘अत्यादयः' (वा० २.२.१८) इति तत्पुरुषः । 'गोस्त्रियोः -' (१.२.४८) इति ह्रस्वः । यद्वा मुक्तान् विरक्तान् । ‘अतिमुक्तस्तु नि:सङ्गे वासन्त्यां तिनिशेऽपि च (इति मेदिनी) ॥


प्रक्रिया

अति + मुक्ता + अम् - अत्यादयः क्रान्ताद्यर्थे द्वितीयया (2.2.18) । वार्तिकम् ।
अतिमुक्ता - सुपो धातुप्रातिपदिकयोः 2.4.71
अतिमुक्त - गोस्त्रियोरुपसर्जनस्य 1.2.48
अतिमुक्त + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अतिमुक्त + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अतिमुक्त + रु - ससजुषो रुः 8.2.66
अतिमुक्त + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अतिमुक्तः - खरवसानयोर्विसर्जनीयः 8.3.15