मालती

सुधाव्याख्या

मां लक्ष्मी लतति । ‘लत' सौत्रो वेष्टनार्थः। मूलविभुजादित्वात् (वा० ३.२.५) कः । गौरादिः (४. १.४१) । मालं तनोति वा । 'अन्येभ्योऽपि (वा० ३.२.१) इति डः । 'मालती युवतौ काचमाच्यां जातिविशल्ययोः । ज्योत्स्नायां निशि नद्यां च' (इति हैमः) ॥