सुमनाः

सुधाव्याख्या

स्विति । सुष्ठु मन्यते । ‘मन ज्ञाने (दि० आ० अ०) । असुन् (उ० ४.१८९) । यद्वा शोभनं मनोऽस्याम् । 'स्त्रियां सुमनसो भूम्नि पुष्पे, जातौ तु भेदतः । विदुष्यपि यदा दृष्टस्तदा भेदेन शिष्यते' इति व्याडिः ॥ ‘सुमनायाश्च पत्रेण' इति सुश्रुतदर्शनात् टाबन्तापि ॥