जातिः

सुधाव्याख्या

जायते । ‘जनी प्रादुर्भावे' (दि० आ० से०) । क्तिच् (३.३.१७४) । ‘जनसन-' (६.४.४२) इत्यात्वम् । वा ङीष् (ग० ४.१.४१) । यत्तु - जायते प्रीतिरनयेति बाहुलकाज्जनेः कर्तरि क्तिच् – इत्याह । तन्न । 'अनया' इति करणविग्रहं प्रदर्श्य ‘कर्तरि' इति कथनं व्याहतम् । ‘बाहुलकात्' इति च । ‘क्तिच्क्तौ च' (३.३.१७४) इति सूत्रस्य सत्त्वात् । 'जातिः स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसोरपि । जातीफले च मालत्याम्' (इति मेदिनी) ॥