सप्तला

सुधाव्याख्या

सप्तेति । सप्त पर्णानि मनोबुद्धीन्द्रियाणि वा लाति । ‘ला दाने (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘अथ सप्तला । नवमालाचर्मकषागुञ्जासु पाटलौ स्त्रियाम्' (इति मेदिनी) ॥