कुमारकः

सुधाव्याख्या

कुमारश्चिरतरुणत्वात् । कुमारयति । ‘कुमार क्रीडायाम्’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । कुमार इव ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् ॥


प्रक्रिया

धातुः - कुमार क्रीडायाम्


कुमार + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
कुमार + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कुमार + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
कुमार + अच् - णेरनिटि 6.4.51
कुमार + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुमार + अ - अतो गुणे 6.1.97
कुमार + सु + कन् - इवे प्रतिकृतौ 5.3.96
कुमार + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुमार + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुमारक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुमारक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुमारक + रु - ससजुषो रुः 8.2.66
कुमारक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुमारकः - खरवसानयोर्विसर्जनीयः 8.3.15