पुन्नागः

सुधाव्याख्या

पुंनेति । पुमान् नाग इव । ‘उपमितं व्याघ्रा-' (२.१.५६) इति समासः । ‘पुंनागो नृश्रेष्ठः । प्राधान्यात्स इव । ‘पुंनागस्तु सितोत्पले । जातीफले नरश्रेष्ठे पाण्डुनागे द्रुमान्तरे ॥