पुरुषः

सुधाव्याख्या

पुरति । ‘पुर अग्रगमने’ (तु० प० से०) । पुरः कुषन् (उ० ४.७४) । यत्तु ‘पिपर्ति' इति विगृह्य ‘पुर: कुषन्’ इत्युपन्यस्तं मुकुटेन । तद्रभसात् । ‘पुरुषस्त्वात्मनि नरे पुंनागे च' ॥