केसरः

सुधाव्याख्या

प्रशस्ता: केसरा अस्य । अर्शआद्यच् (५.२.१२७) । 'केसरो नागकेसरे । तुरंगसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुंनागवृक्षे किंजल्के स्यात्केसरं तु हिङ्गुनि' इति हैमः ॥