तुञ्ज्यते । ‘तुजि हिंसायाम्' (भ्वा० प० से०, चु० उ०) । घञ् (३.३.१८) । न्यङ्क्वादिः (७.३.५३) । उच्चत्वाद्वा । ‘तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते' इति हैमः ॥
धातुः - तुजिँ हिंसाबलादाननिकेतनेषु