वल्वजः

सुधाव्याख्या

पुमिति । वलते । ‘वल संवरणे' (भ्वा० आ० से०) । क्विप् (३.२.१७८) । वजति । ‘वज गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । वल् चासौ वजश्च । ‘एको वल्वज:' इति (१.२.४५) सूत्रे भाष्यकारवचनादेकत्वेऽपि ॥


प्रक्रिया

धातुः - वलँ संवरणे सञ्चरणे च , वजँ गतौ


वलँ संवरणे सञ्चरणे च
वल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वल् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
वल् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9, वेरपृक्तस्य 6.1.67
वजँ गतौ
वज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वज् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वज् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वल् + सु + वज + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
वल् + वज - सुपो धातुप्रातिपदिकयोः 2.4.71
वल्वज + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वल्वज + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वल्वज + रु - ससजुषो रुः 8.2.66
वल्वज + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वल्वजः - खरवसानयोर्विसर्जनीयः 8.3.15