पोटगलः

सुधाव्याख्या

पोटेन संश्लेषेण गलति । ‘गल अदने (भ्वा० प० से०) । स्रवणे (चु० आ० से०) । अच् (३.१.१३४) । ‘अथ पोटगलः पुंसि नले च काशमत्स्ययोः' (इति मेदिनी) ॥