इक्षुगन्धा

सुधाव्याख्या

इक्षुवद्गन्धोऽस्याः । समासान्तविधेरनित्यत्वान्नेत्वम् (५.४.१३५) । ‘इक्षुगन्धा कोकिलाक्षे क्रोष्ट्र्यां काशे च गोक्षुरे’ (इति मेदिनी) ॥