रसालः

सुधाव्याख्या

रसेति । रसेनालति, अल्यते, वा = पूरयति, पूर्यते, वा । ‘अल भूषणादौ’(भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘रसालं सिह्नके वोले रसालश्चेक्षुचूतयोः' (इति मेदिनी) ॥