कान्तारकः

सुधाव्याख्या

कान्तं रसमृच्छति । ‘ऋ गतौ (भ्वा० प० अ०) । 'कर्मण्यण्' (३.२.१) । स्वार्थे कन् । (५.३.७५) । ण्वुल् (३.१.१ ३३) वा ॥


प्रक्रिया

धातुः - ऋ गतिप्रापणयोः


कान्त + अम् + ऋ + अण् - उपपदमतिङ् 2.2.19, कर्मण्यण् 3.2.1
कान्त + ऋ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कान्त + ऋ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कान्त + आर - अचो ञ्णिति 7.2.115
कान्तार - अकः सवर्णे दीर्घः 6.1.101
कान्तार + सु + कन् - संज्ञायां कन् 5.3.75
कान्तार + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कान्तार + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कान्तारक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कान्तारक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कान्तारक + रु - ससजुषो रुः 8.2.66
कान्तारक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कान्तारकः - खरवसानयोर्विसर्जनीयः 8.3.15