पुण्ड्रः

सुधाव्याख्या

तदिति । कोषकाराद्या आदिना गृह्यन्ते । ‘इक्षुः कर्कटको वंशः कान्तारो वेणुनिसृतः । इक्षुरन्यः पौण्डृकश्च रसालः सुकुमारकः' । पुण्ड्यन्ते । ‘पुडि खण्डने' (भ्वा० प० से०) । ‘स्फायी-' (उ० २.१३) इत्यादिना रक् ॥ प्रज्ञाद्यणि (५.४.३८) । पौण्ड्रः । ‘पुण्ड्रेक्षौ पुण्डुकः सेव्यः पौण्डृकोतिरसो मधुः' इति वाचस्पतिः । ‘पुण्ड्रो दैत्यविशेषेक्षु भेदयोरतिमुक्तके । (चित्रे कृमौ पुण्डरीके पुंभूम्नि नीवृदन्तरे । (इति मेदिनी) ॥


प्रक्रिया

धातुः - पुडिँ खण्डने


पुड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुन्ड् - इदितो नुम् धातोः 7.1.58
पुंड् - नश्चापदान्तस्य झलि 8.3.24
पुण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
पुण्ड् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
पुण्ड् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पुण्ड्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पुण्ड्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुण्ड्र + रु - ससजुषो रुः 8.2.66
पुण्ड्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुण्ड्रः - खरवसानयोर्विसर्जनीयः 8.3.15