छदः

सुधाव्याख्या

छद्यतेऽनेन । णिजभावे ‘पुंसि संज्ञायाम्' (३.३.११९) इति घः । णिजन्तस्यापि छाद्यतेऽनेन । 'छादेर्घे-' (६.४.९६) इति ह्रस्वः । ‘छदः पलाशे गरुति ग्रन्थिपर्णतमालयो:' । ‘पुमान्' इति विशेषणं सान्तक्लीबभ्रमनिरासार्थम् ॥