पत्रम्

सुधाव्याख्या

पत्रमिति । पतति । ‘पत्लृ गतौ' (भ्वा० प० से०) । ष्ट्रन् (उ० ४.१५९) । ‘पत्त्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षिणो:' ॥


प्रक्रिया

धातुः - पतॢँ गतौ


पत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पत् + ष्ट्रन् - सर्वधातुभ्यः ष्ट्रन् (४.१५९) । उणादिसूत्रम् ।
पत् + त्र - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9, निमित्तापाये नैमित्तिकस्याप्यपायः ।
पत्त्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पत्त्र + अम् - अतोऽम् 7.1.24
पत्त्रम् - अमि पूर्वः 6.1.107