विटपः

सुधाव्याख्या

विटान् पाति । ‘पा रक्षणे' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । यद्वा विटानां पानम् । ‘पा पाने' (भ्वा० प० अ०) । ‘घञर्थे कः' (वा० ३.३.५८) । यद्वा विटति, विट्यते वा । ‘विट आक्रोशे' (भ्वा० प० से०) । ‘विटपविष्टप-' (उ० ३.१४५) इति कपन् । यत्तु–वट्यते वेष्ट्यतेऽनेन । ‘वट वेष्टने (भ्वा० प० से०) । ‘विटपादयश्च' इति सूत्रमुपन्यस्तं मुकुटेन । तन्न । एतादृशसूत्रादर्शनात् । 'विटपो न स्त्रियां स्तम्बशाखाविस्तार पल्लवे । विटाधिपे ना' ॥ द्वे शाखादिविस्तारस्य । केचित्तु—उक्तमेदिनीकोषादेव पल्लवादिचतुष्टयमेकार्थमाहुः ।