पर्णम्

सुधाव्याख्या

पिपर्ति । ‘पॄ पालनपूरणयोः' (जु० प० से०) । ‘कॄपॄविषिधाभ्यो न:' । यद्वा पृणति । ‘पृण प्रीणने (तु० प० से०) । पचाद्यच् (३.१.१३४) । यद्वा पर्णयति । हरितभावे (चु० उ० से०) । पचाद्यच् (३.१.१३४) । यत्तु मुकुटः - पिपर्ति प्रीणयति । ‘पॄ प्रीणने’ । पचाद्यचि (३.१.१३४) वा पर्णम् इत्याह । तन्न । असम्भवात् । ‘पर्णस्त्रिपर्णे पर्णं तु पत्त्रे' इति हैम: ॥