छदनम्

सुधाव्याख्या

छद्यतेऽनेन । ‘छद अपवारणे' (चु० उ० से०) । ‘आधृषाद्वा' (ग० ३.१.२५) इति णिजभावे पक्षे करणे ल्युट् (३.३.११७) । ‘छदनं च दले पक्षे पिधाने' ॥