पलाशम्

सुधाव्याख्या

‘पलमुन्मानमांसयो:' । पलं मांसमश्नाति । ‘अश भोजने' (क्र्या० प० से०) । कर्मण्यम् (३.२.१) । मुकुटस्तु – ‘पल गतौ' (भ्वा० प० से०) । ‘घञर्थे क: (३.३.५८) । पलति रक्षति जलादेः । ‘पाल रक्षणे' पचादिः (३.१.१२४) । पलं चलनमश्नुते व्याप्नोति–इत्याह । तन्न । ‘घञर्थे कः' इति न । 'स्थास्नापाव्यधिहनियुध्यर्थम्' इति परिगणनात् । ‘पाल रक्षणे' इति धातो रसत्त्वात् । पचाद्यजन्तस्य ‘पलं चलनम्' इति वाक्यासम्भवात् । ‘पलाशं छदने मतम् । शती किंशुकरक्ष:सु पुंसि स्याद्धरिते त्रिषु' इति मेदिनी । ‘पलाशः किंशुकेऽस्त्रपे । हरिते, पलाशं पत्त्रे' इति हैमः ॥