लोपामुद्रा

सुधाव्याख्या

अस्यैव पत्नी लोपामुद्रा । न मुदं राति । आतोऽनुप-’ (३.२.३) इति कः । लोपे धर्मलोपे अमुद्रा = हर्षं न लभते इत्यर्थः । स्वाम्युक्तेऽस्य पृषोदरादित्वे (६.३.१०९) फलं चिन्त्यम् । यत्तु-लोपयति योषितां रूपाभिमानम् । पचाद्यच् (३.१.१३४) । टाप् (४.१.४) लोपा । मुद्रयति स्रष्टुः सृष्टिमिति मुद्रा । ततः कर्मधारयः (२.१.५७) इति मुकुटेनोक्तम् । तच्चिन्त्यम् । लोपाशब्दस्यैव भाषितपुंस्कत्वात्पुंवद्भावप्रसङ्गात् । आङ्-प्रश्लेषेण वा तत्समाधेयम् ।


प्रक्रिया

धातुः - रा दाने


मुद् + अम् + रा + क - उपपदमतिङ् 2.2.19, आतोऽनुपसर्गे कः 3.2.3
मुद् + रा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
मुद् + रा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मुद् + र् + अ - आतो लोप इटि च 6.4.64
नञ् + मुद्र + सु - नञ्‌ 2.2.6
नञ् + मुद्र - सुपो धातुप्रातिपदिकयोः 2.4.71
न + मुद्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अमुद्र - नलोपो नञः 6.3.73
अमुद्र + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अमुद्र + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अमुद्रा - अकः सवर्णे दीर्घः 6.1.101
लोप + ङि + अमुद्रा + सु - सप्तमी शौण्डैः 2.1.40
लोप + अमुद्रा - सुपो धातुप्रातिपदिकयोः 2.4.71
लोपामुद्रा - अकः सवर्णे दीर्घः 6.1.101
लोपामुद्रा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लोपामुद्रा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोपामुद्रा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68