अगस्त्यः

सुधाव्याख्या

अगं विन्ध्यं स्त्यायति स्तभ्नोति । आतोऽनुपसर्गे कः’ (३.२.३) । अगस्त्यः स्यात्कुम्भयोनौ वङ्गसेनतरावपि' । अगमस्यतीत्यप्यगस्तिः । ‘वसेस्ति:’ (उ० ४.१८०) बाहुलकादस्यतेरपि-इति मुकुटः । वस्तुतस्तु क्तिच् तौ च-' (३.३.१७४) इति क्तिजुचित: । बाहुलकाश्रयस्यागतिकगतित्वात् । शकन्ध्वादिः (वा० ६.१.९४) । ’अथागस्त्यः कुम्भयोनिरगस्तिः कलशीसुतः’ इति शब्दार्णवः ।