मैत्रावरुणिः

सुधाव्याख्या

मित्रावरुणौ देवर्षी । ‘देवताद्वन्द्वे च' (६.३.२५) इत्यानङ् । ऋषिसमुदायस्यानृषित्वादपत्ये ‘अत इञ् ( ४.१.९५) इति मुकुटः । तन्न । एतयोः ऋषित्वे मानाभावात् ॥ वारुणिरपि । मित्रावरुणयोः सूनुरौर्वशेयश्च वारुणिः’ इति व्याडिः । अणपि दृश्यते । और्वशेयागस्त्यमैत्रावरुणास्त्वाग्निमारुताः’ इति नामश्निधानात् ।


प्रक्रिया

मित्र + आनङ् + वरुण - देवताद्वंद्वे च 6.2.141
मित्रान् + वरुण - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मित्रावरुण - नलोपः प्रातिपदिकान्तस्य 8.2.7
मित्रावरुण + ङस् + इञ् - अत इञ् 4.1.95
मित्रावरुण + इञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
मित्रावरुण + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मित्रावरुण् + इ - यस्येति च 6.4.148
मैत्रावरुणि - तद्धितेष्वचामादेः 7.2.117
मैत्रावरुणि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मैत्रावरुणि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मैत्रावरुणि + रु - ससजुषो रुः 8.2.66
मैत्रावरुणि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मैत्रावरुणिः - खरवसानयोर्विसर्जनीयः 8.3.15