ध्रुवः

सुधाव्याख्या

ध्रुवति स्थिरो भवति । ’ध्रु गतिस्थैर्ययोः’ (तु० प० अ०) । अच् (३.१.१३४) । कुटादित्वात् (१.२.१) ङित्वम् । यत्तु मुकुटेन- (उकारान्तधातुमुपन्यस्य) इगुपधत्वात् (३.१.१३५) कः-इत्युक्तम् । तद्रभसात् । वकारान्तधातौ वा तद्वोध्यम् । ‘ध्रुवः शङ्के हरे विष्णौ वटे चोत्तानपादजे । वसुयोगभिदोः पुंसि ध्रुवं खेऽजस्रतर्कयोः । स्त्री मूर्वाड्यो: शालपर्ण्यां गीतिस्रुग्भेदयोस्त्रिषु । स्थिरे नित्ये निश्चिते च ध्रुवं क्लीबं प्रकीर्तितम् ।