औत्तानपादिः

सुधाव्याख्या

उत्तानपादस्यापत्यम् । ‘अत इञ्’ (४.१.९५) । मुकुटस्तु-ऋषित्वात् 'ऋष्यन्धक-’ (४.१.११४) इत्यणि प्राप्ते बाह्वादित्वात् (४.१.९६) इञ् - इत्याह । तन्न । उत्तानपादस्य ऋषित्वे मानाभावात् ।