ग्राहः

सुधाव्याख्या

ग्राह इति । गृह्णाति । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । 'विभाषा ग्रहः’ (३.१.१४३) इति णः । ‘ग्राहो ग्रहे जलचरे' इति हैमः ।