कुलीरः

सुधाव्याख्या

स्यादिति । कुलति । ‘कुल संस्त्याने (भ्वा० प० से०) । गम्भीरादयश्च' इतीरन् । कौ लीयते । ‘लीङ् श्लेषणे’ (दि० आ० अ०) । बाहुलकाद् रक् । यद्वा कुलमस्यास्ति । अत इनिः’ (५.२.११५) । तमीरयति । 'कर्मण्यण्' (३.२.१) जनकभक्षकत्वात् । लयनम्-लीः । सम्पदादिः (वा० ३.३.१०८) । कुत्सिता ली: । तां राति वा ॥