कच्छपः

सुधाव्याख्या

कच्छेन पिबति । ‘पा पाने’ (भ्वा० प० अ०) । ‘सुपि’ (३.२.४) इति योगविभागात्कः । ‘कच्छपी वल्लकीभेदे डुलौ क्षुद्रगदान्तरे । पुंसि विध्यन्तरे कूर्मे मल्लबन्धान्तरेऽपि च' इति विश्वमेदिन्यौ ॥ त्रीणि कूर्मस्य ।