नक्रः

सुधाव्याख्या

नक्र इति । दूरस्थलम् । ‘क्रमु पादविक्षेपे (भ्वा० प० से०) । ‘अन्यत्रापि-' (वा० ३.२.४८) इति ड: । 'नभ्राड्- (६.३.७५) इति नलोपो न । ‘नक्रं नासाग्रदारुणोः । नक्रो यादसि’ इति हैमः ।