कर्कटकः

सुधाव्याख्या

कृणाति । कॄ हिंसायाम् (क्र्या० प० से०) । ‘अन्येभ्योऽपि’ (३.२.७५) इति विच् । कटति । कटे वर्षावरणयोः (भ्वा० प० से०) । पचाद्यच् (३.३.१३४) । कर् चासौ कटश्च । 'अहरादीनां पत्यादिषु वा रेफः” (वा० ८.२.७०) । ततः स्वार्थे कन् (५.३.७४) । ‘कर्कं’ इति सौत्रो धातुः । ‘शकादिभ्योऽटन्' (उ० ४.८१) वा० । कर्कं श्वेतवर्णं टलति । ‘टल गतौ' (भ्वा० प० से०) । डः (वा०३.२.१०१) वा । कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगे’ इति हैम: ॥


प्रक्रिया

धातुः - कॄ हिंसायाम् , कटेँ वर्षावरणयोः


कॄ हिंसायाम्
कॄ + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
कर् + विच् - सार्वधातुकार्धधातुकयोः 7.3.84
कर् + व् - उपदेशेऽजनुनासिक इत् 1.3.2, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कर् - वेरपृक्तस्य 6.1.67
कटेँ वर्षावरणयोः
कट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कट् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
कट् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कर् + सु + कट + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कर् + कट - सार्वधातुकार्धधातुकयोः 7.3.84
कर्कट - अहरादीनां पत्यादिषु वा रेफः (8.2.70) । वार्तिकम् ।
कर्कट + सु + कन् - कुत्सिते 5.3.74
कर्कट + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कर्कटक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कर्कटक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कर्कटक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्कटक + रु - ससजुषो रुः 8.2.66
कर्कटक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्कटकः - खरवसानयोर्विसर्जनीयः 8.3.15