कोलः

सुधाव्याख्या

कोलति । ‘कुल संस्त्याने (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । 'पोतृप्लवकयोः कोलः कोलं तु बदरीफलम्’ इति शाश्वतः । 'कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ । कोलं तु बदरे कोला पिप्पल्यां चव्यभेषजे’ इति हैमः । त्रीणि तृणादिनिर्मिततरणसाधनस्य ।