काष्ठाम्बुवाहिनी

सुधाव्याख्या

पुनः पुनरम्बुवहति । ‘बहुलमाभीक्ष्ण्ये (३.२.८१) इति णिनिः ॥ (२) द्वे काष्ठपाषाणकृतनौकाकाराम्बुसेचन्या: ।


प्रक्रिया

धातुः - वहँ प्रापणे


वह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अम्बु + वह् + णिनि - बहुलमाभीक्ष्ण्ये 3.2.81
अम्बु + वह् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
अम्बु + वाह् + इन् - अत उपधायाः 7.2.116
काष्ठ + सु + अम्बुवाहिन् - उपपदमतिङ् 2.2.19
काष्ठ + अम्बुवाहिन् - सुपो धातुप्रातिपदिकयोः 2.4.71
काष्ठाम्बुवाहिन् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
काष्ठाम्बुवाहिन् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
काष्ठाम्बुवाहिनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काष्ठाम्बुवाहिनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काष्ठाम्बुवाहिनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68