उडुपम्

सुधाव्याख्या

उडुपमिति । उडुनो जलात् पाति । ‘पा रक्षणे' (अ० प० अ०) । सुपि स्थः’ (३.२.४) इत्यत्र ‘सुपि’ इति योगविभागात्कः । उडूनीव पाति, इति वा । ‘उडुपश्चन्द्रभेलयोः इति धरणि: ॥ (१)