दिवौकसः

सुधाव्याख्या

दिवमोको येषां ते दिवौकसः । दिवशब्दोऽदन्तः । ‘मन्दरः सैरिभः शक्रभव(सद)नं खं दिवं नभः' इति त्रिकाण्डशेषात् । द्यौरोको येषामिति विग्रहे ‘दिवोकस: अपि । 'स्याद्दिवौका दिवोकाश्च देवे चापीह पक्षिणि' इति रन्तिदेवः । 'दिवोकाश्च दिवौकाश्च पुंसि देवे च चातके' । शब्दपरविप्रतिषेधात्परस्य यणादेशः । स्थानिवत्वेन पूर्वस्य न यण् । ‘सकृद्गतौ' (१.४.२ प०) इति न्यायात् ॥