त्रिदशाः

सुधाव्याख्या

तृतीया यौवनाख्या दशा सदा येषाम् । त्रिशब्दस्य तृतीयार्थता त्रिभागवत् । त्रिर्दश वा । ‘संख्ययाऽव्यया-'(२.२.२५) इति बहुव्रीहिः । ‘बहुव्रीहौ संख्येये-(५.४.७३) इति डच् । जन्मसत्ताविनाशाख्यास्तिस्रो दशा येषामिति वा । ‘त्रीन् तापान् दशन्ति ‘दंश दशने' (भ्वा० प० अ०) पचाद्यचि पृषोदरादित्वात् (६.३.१०९) न लोपः' इति राजदेवः । तन्न । उक्तविग्रहे कर्मण्यणः (३.२.१) प्रसङ्गेनाचोऽप्राप्तेः । मूलविभुजादित्वादित्येके (३.२.५ वा०) वा समाधेयम् ॥


प्रक्रिया

त्रि जस्+दशन् सु - संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये 2.2.25
त्रि+दशन् - सुपो धातुप्रातिपदिकयोः 2.4.71
त्रिदशन् सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
त्रि+दशन्+डच् - बहुव्रीहौ संख्येये डजबहुगणात्‌ 5.4.73
त्रि+दशन्+ड - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
त्रि+दशन्+अ - चुटू 1.3.7, तस्य लोपः 1.3.9
त्रि+दश्+अ - डित्वसामर्थ्यात् अभस्यपि टेर्लोपः ।
त्रिदश+जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
त्रिदश+अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
त्रिदशास् - प्रथमयोः पूर्वसवर्णः 6.1.102
त्रिदशारु - ससजुषो रुः 8.2.66
त्रिदशार् - उपदेशेऽजनुनासिक इत् 1.3.2
त्रिदशाः - खरवसानयोर्विसर्जनीयः 8.3.15