सुराः

सुधाव्याख्या

सुरन्तीति सुराः । ‘षुर प्रसवैश्वर्ययोः (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । यद्वा समुद्रोत्था सुरास्त्येषाम् । अर्शआद्यच् (५.२.१२७) । यद्वा शोभनं राजते । ‘राजृ दीप्तौ (भ्वा० उ० से०) ‘अन्येभ्योऽपि-' (३.२.१०१ वा०) इति डः । 'सुरा चषकमद्ययोः । पुंलिङ्गस्त्रिदिवेशे स्यात् ॥