दुश्च्यवनः

सुधाव्याख्या

दुःखेन दुष्टं दुष्टेषु वा च्यवनमस्य । दुःसहश्च्यवनो मुनिरस्येति वा ॥


प्रक्रिया

दुस् + सु + च्यवन + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
दुस् + च्यवन - सुपो धातुप्रातिपदिकयोः 2.4.71
दुश् + च्यवन - स्तोः श्चुना श्चुः 8.4.40
दुश्च्य्वन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दुश्च्य्वन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुश्च्य्वन + रु - ससजुषो रुः 8.2.66
दुश्च्य्वन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुश्च्य्वनः - खरवसानयोर्विसर्जनीयः 8.3.15