ऋभुक्षाः

सुधाव्याख्या

ऋभवः क्षियन्त्यत्र । क्षि निवासगत्यो:’ (तु० प० अ०) । डः (वा० ३.२.१०१) ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः सोऽस्यास्तीति ऋभुक्षाः । इनिः (५.२.११५) पथिवत् । यद्वा ऋच्छति इयर्तीति वा । अर्तभुक्षिनक् प्रत्ययः ।


प्रक्रिया

धातुः - क्षि निवासगत्योः


ऋभु + जस् + क्षि + ड - अन्येभ्योऽपि दृश्यते (३.२.१०१) । वार्तिकम् ।
ऋभु + क्षि + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
ऋभु + क्ष् + अ - डित्वसामर्थ्यात् अभस्यपि टेर्लोपः ।
ऋभुक्ष + इनि - अत इनिठनौ 5.2.115
ऋभुक्ष + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऋभुक्ष् + इन् - यस्येति च 6.4.148
ऋभुक्षिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऋभुक्षि आ + स् - पथिमथ्यृभुक्षामात्‌ 7.1.85
ऋभुक्ष आ + स् - इतोऽत्‌ सर्वनामस्थाने 7.1.86
ऋभुक्षास् - अकः सवर्णे दीर्घः 6.1.101
ऋभुक्षारु - ससजुषो रुः 8.2.66
ऋभुक्षार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऋभुक्षाः - खरवसानयोर्विसर्जनीयः 8.3.15