तुराषाट्

सुधाव्याख्या

तुतोर्ति = तुरः । तुर त्वरणे' (जु० प० से०) । इगुपध'=(३.१.१३५) इति कः । तुरं वेगवन्तं साहयत्यभिभवति । ‘अधे: प्रसहने’ (१.३.३३) इति सूत्रे 'प्रसहनमभिभवः’ इति वृत्तेः । ण्यन्तात् (३.१.२६) सहेः (भ्वा० आ० से०) क्विप् (३.२.७६) । सहेः साडः सः (८.३.५६) इति षत्वम् । अन्येषामपि-"(६.३.१३७) इति पूर्वपदस्य दीर्घः । आङ्प्रश्लेषो वा । 'नहिवृतिवृषि (६.३.११६) इति वा दीर्घ: । एकदेशविकृतस्यानन्यत्वात् । दीर्घविधौ (१.१.५८) इति, ’क्विलुग्-' (वा० १.१ ५८) इति वा (णिलोपस्य) स्थानिवत्वनिषेधात्क्विप्परत्वान पायात् । यत्तु - तुरं सहते इति विगृह्य ‘छन्दसि सहः (३.२.६३) इति ण्विः इति स्वामी । तन्न । छान्दसस्य लोके प्रयोगाभावात् । यदपि-'नहिवृतिवृषि–’ (६.३.११६) इति पूर्वपदस्य दीर्घ: - इत्युक्तम् । तदपि न । क्विबन्तेषु नह्यादिष्वस्य प्रवृत्तेर्ण्यन्तेऽस्योपन्यासस्यान्याय्यत्वात् । एतेन तुरं वेगवन्तं सहते इति वा, तुरस्त्ववरितः सन् परबलानि सहते इति वा’ इति विगृह्य छन्दसि सहः’ (३.२.६३) इति ण्विः - इत्युपन्यस्यन् मुकुटोऽपि प्रत्युक्तः ।


प्रक्रिया

धातुः - तुरँ त्वरणे , षहँ मर्षणे


तुरँ त्वरणे
तुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुर् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
तुर् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
षहँ मर्षणे
षह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सह् - धात्वादेः षः सः 6.1.64
तुर अम् सह् + णिच् - उपपदमतिङ् 2.2.19, हेतुमति च 3.1.26
तुर + सह् + णिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
तुर सह् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तुर साह् + इ - अत उपधायाः 7.2.116
तुर साह् + इ + क्विप् - क्विप् च 3.2.76
तुर साह् + क्विप् - णेरनिटि 6.4.51
तुर साह् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुर + साह् - वेरपृक्तस्य 6.1.67
तुर + षाह् - सहेः साडः सः 8.3.56
तुरा + षाह् - अन्येषामपि दृश्यते 6.3.137
तुराषाह् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुराषाढ् + सु - हो ढः 8.2.31
तुराषाड् + सु - झलां जशोऽन्ते 8.2.39
तुराषाट् + सु - खरि च 8.4.55
तुराषाट् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुराषाट् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68