मेघवाहनः

सुधाव्याख्या

मेघा वाहनमस्य । मेघान् वाहयतीति वा । ल्युः (३.१.१३४) ।


प्रक्रिया

धातुः - वहँ प्रापणे


वह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वह् + णिच् - हेतुमति च 3.1.26
वह् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वाह् + इ - अत उपधायाः 7.2.116
वाह् + इ + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वाह् + ल्यु - णेरनिटि 6.4.51
वाह् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वाह् + अन - युवोरनाकौ 7.1.1
मेघ + जस् वहन + सु - अनेकमन्यपदार्थे 2.2.24
मेघ + वाहन - सुपो धातुप्रातिपदिकयोः 2.4.71
मेघवाहन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मेघवाहन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मेघवाहन + रु - ससजुषो रुः 8.2.66
मेघवाहन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मेघवाहनः - खरवसानयोर्विसर्जनीयः 8.3.15