संक्रन्दनः

सुधाव्याख्या

संक्रन्दयति । ‘क्रदि आह्वाने रोदने च (भ्वा० प० से०) । ल्युः (३.१.१३४) ।


प्रक्रिया

धातुः - क्रदिँ आह्वाने रोदने च


सम् + क्रद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + क्र नुम् द् - इदितो नुम् धातोः 7.1.58
सम् + क्रन्द् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + क्रन्द् + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
सम् + क्रन्द् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सम् + क्रन्द् + अन - युवोरनाकौ 7.1.1
सं + क्रन्दन - मोऽनुस्वारः 8.3.23
संक्रन्दन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
संक्रन्दन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संक्रन्दन + रु - ससजुषो रुः 8.2.66
संक्रन्दन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संक्रन्दनः - खरवसानयोर्विसर्जनीयः 8.3.15