विष्वक्सेनः

सुधाव्याख्या

विषु शब्दो नानार्थो निपातः । विषु नाना अञ्चति । ऋत्विग्-’ (३.२.५९) इति क्विन् । ‘उगितश्च' (४.१.६) इति डीप् । विषूची सेना यस्य । गकारपरत्वात् ‘एति संज्ञायामगात्' (८.३.९९) इति न षत्वम् । विष्वक्सेनः। विष्वग् विश्वक् स्मृतो विज्ञैर्विषुवं विशुवं तथा इति द्विरूपकोशात् तालव्यमध्योऽपि । ‘तालव्या मूर्धन्याश्चैते शब्दा: शटी च परिवेषः । विश्वक्सेनो भ्रेष: प्रतिष्कश: कोशविशदौ च इत्यूष्मविवेकाच्च । विष्वक्सेना फलिन्यां स्यात् विष्वक्सेनो जनार्दने । मुकुटस्तु—पूर्वपदात्संज्ञायामगः’ (८.४.३) इति न णत्वम् । विष्वक्शब्दस्य गकारान्तत्वात् गकारान्तत्वं च णत्वे कर्तव्ये परस्य ‘खरि च (८.४.५५) इति चर्वस्या सिद्धत्वात् इत्याह । तन्न । अट्कुप्वाङ्' (८.४.२) इत्यधिकारात्सकारव्यवाये प्राप्तेरेवाभावात् ॥


प्रक्रिया

धातुः - अन्चुँ गतिपूजनयोः


अन्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विषु + अन्च्
विष्वन्च् - इको यणचि 6.1.77
विष्वन्च् + क्विन् - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 3.2.59
विष्वन्च् + व् - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विष्वन्च् - वेरपृक्तस्य 6.1.67
विष्वच् - अनिदितां हल उपधायाः क्ङिति 6.4.24
विष्वच् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विष्वक् + सु - चोः कुः 8.2.30
विष्वक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विष्वक् सु सेन सु - अनेकमन्यपदार्थे 2.2.24
विष्वक् सेन - सुपो धातुप्रातिपदिकयोः 2.4.71
विष्वक्सेन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विष्वक्सेन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विष्वक्सेन + रु - ससजुषो रुः 8.2.66
विष्वक्सेन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विष्वक्सेनः - खरवसानयोर्विसर्जनीयः 8.3.15